|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.159. अध्यायः 159
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण तपोनिरूपणम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-159-0x(5834)(71346)
सर्वमेतत्तपोमूलं कवयः परिचक्षते।
न ह्यतप्ततपा मूढः क्रियाफलमवाप्नुते॥ 12-159-1(71347)
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः।
तथैव वेदानृपयस्तपसा प्रतिपेदिरे॥ 12-159-2(71348)
तपसैव ससर्जान्नं फलमूलानि यानि च।
त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः॥ 12-159-3(71349)
औषधान्यगदादीनि तिस्त्रो विद्याश्च संस्कृताः।
तषसैव हि सिद्ध्यन्ति तपोमूलं हि साधनम्॥ 12-159-4(71350)
यद्दुरापं दुराराध्यं दुराधर्षं दुरुत्सहम्।
तत्सर्वं तपसा शक्यं तपो हि दुरतिक्रमम्।
ऐश्वर्यमृषयः प्राप्तास्तपसैव न संशयः॥ 12-159-5(71351)
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः।
तपसैव सुतप्तेन नरः पापात्प्रमुच्यते॥ 12-159-6(71352)
तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः।
निवृत्त्या वर्तमानस्य तपो नानशनात्परम्॥ 12-159-7(71353)
अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः।
एतेभ्यो हि महाराज तपो नानशनात्परम्॥ 12-159-8(71354)
न दुष्करतरं दानान्नाति मातरमाश्रमः।
त्रैविद्येभ्यः परं नास्ति संन्यासान्नापरं तपः॥ 12-159-9(71355)
इन्द्रियाणीह रक्षन्ति विप्रर्षिपितृदेवताः।
तस्मादर्थे च धर्मे च तपो नानशनात्परम्॥ 12-159-10(71356)
ऋषयः पितरो देवा मनुष्या मृगपक्षिणः।
यानि चान्यानि भूतानि स्यावराणि चराणि च॥ 12-159-11(71357)
तपः परायणाः सर्वे सिध्यन्ति तपसा च ते।
इत्येवं तपसा देवा महत्त्वं प्रतिपेदिरे॥ 12-159-12(71358)
इमानीष्टविभागानि फलानि तपसः सदा।
तपसा शक्यते प्राप्नुं देवत्वमपि निश्चयः॥ ॥ 12-159-13(71359)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः॥ 159॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-159-3 तपसो ह्यानुपूर्व्येण फलमूलानिलाशिनः। इति द. ध. पाठः॥ 12-159-9 मातरमतिक्रम्याश्रमो न। सर्वेष्वप्याश्रमेषु माता पालनीयैव। तत्त्यागस्य संन्यासिनोऽप्ययोगात्॥ 12-159-13 इमानिं नक्षत्रादीनि। सुकृतां वा एतानि ज्योतीषि यन्नक्षत्राणीश्रुतेः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|